अथातो ब्रह्मजिज्ञासा । ( ब्रसू-१,१.१ । ) 3
जन्माद्यस्य यतः । ( ब्रसू-१,१.२ । ) 3
शास्त्रयोनित्वात् । ( ब्रसू-१,१.३ । ) 3
तत् तु समन्वयात् । ( ब्रसू-१,१.४ । ) 3
ईक्षतेर् नाशब्दम् । ( ब्रसू-१,१.५ । ) 3
गौणश् चेन् नात्मशब्दात् । ( ब्रसू-१,१.६ । ) 3
तन्निष्ठस्य मोक्षोपदेशात् । ( ब्रसू-१,१.७ । ) 3
नाच् च । ( ब्रसू-१,१.८ । ) 4
हेयत्वावचप्रतिज्ञाविरोधात् । ( ब्रसू-१,१.९ । ) 4
स्वाप्ययात् । ( ब्रसू-१,१.१० । ) 4
गतिसामान्यात् । ( ब्रसू-१,१.११ । ) 4
श्रुतत्वाच् च । ( ब्रसू-१,१.१२ । ) 4
आनन्दमयोऽभ्यासात् । ( ब्रसू-१,१.१३ । ) 4
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ( ब्रसू-१,१.१४ । ) 4
तद्धेतुव्यपदेशाच् च । ( ब्रसू-१,१.१५ । ) 4
मान्त्रवर्णिकमेव च गीयते । ( ब्रसू-१,१.१६ । ) 4
नेतरोऽनुपपत्तेः । ( ब्रसू-१,१.१७ । ) 4
भेदव्यपदेशाच् च । ( ब्रसू-१,१.१८ । ) 5
कामाच् च नानुमानापेक्षा । ( ब्रसू-१,१.१९ । ) 5
अस्मिन्न् अस्य च तद्योगं शास्ति । ( ब्रसू-१,१.२० । ) 5
अन्तस् तद्धर्मोपदेशात् । ( ब्रसू-१,१.२१ । ) 5
भेदव्यपदेशाच् चान्यः । ( ब्रसू-१,१.२२ । ) 5
आकाशस् तल्लिङ्गात् । ( ब्रसू-१,१.२३ । ) 5
अत एव प्राणः । ( ब्रसू-१,१.२४ । ) 5
ज्योतिश् चरणाभिधानात् । ( ब्रसू-१,१.२५ । ) 5
छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ( ब्रसू-१,१.२६ । ) 5
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ( ब्रसू-१,१.२७ । ) 5
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ( ब्रसू-१,१.२८ । ) 6
प्राणस् तथानुगमात् । ( ब्रसू-१,१.२९ । ) 6
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ( ब्रसू-१,१.३० । ) 6
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ( ब्रसू-१,१.३१ । ) 6
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ( ब्रसू-१,१.३२ । ) 6